Proofing

This page has not been fully proofread.

सू. ४७.]
 
द्वितीयोऽध्यायः ।
 
-
 
४८३
 
स्मरन्ति च व्यासादयः- यथा जैवेन दुःखेन न पर-
मात्मा दुःखायत इति; ' तत्र यः परमात्मा हि स नित्यो
निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्त-
दशकेनापि राशिना युज्यते पुनः' इति । च शब्दात् - स-
मामनन्ति च -
- इति वाक्यशेष:- ' तयोरन्य: पिप्पलं
स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' इति, 'एकस्तथा सर्व-
भूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्य:' इति च ॥
 
अत्राह -- यदि तक एव सर्वेषां भूतानामन्तरात्मा
स्यात्, कथमनुज्ञापरिहारौ स्यातां लौकिको वैदिको चेति ।
ननु च अंशो जीव ईश्वरस्य इत्युक्तम् ; तद्भेदाच्चानुज्ञापरिहारौ
तदाश्रयावव्यतिकीर्णावुपपद्येते; किमत्र चोद्यत इति,
उच्यते-- नैतदेवम्; अनंशत्वमपि हि जीवस्याभेदवादिन्यः
श्रुतय: प्रतिपादयन्ति -- 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'ना-
न्योऽतोऽस्ति द्रष्टा' ' मृत्योः स मृत्युमाप्नोति य इह नानेव
पश्यति' 'तत्त्वमसि' ' अहं ब्रह्मास्मि' इत्येवजातीयकाः ।
ननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम्- खादेतदेवम्,
 
भावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम् ; अभेद
एव त्वत्र प्रतिपिपादयिषितः, ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थ-