2026-05-06 05:21:20 by ambuda-bot
This page has not been fully proofread.
४८२
सूत्रभाष्ये
[पा. ३.
वाघोषिते, येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्नि-
मित्तं दुःखमुत्पद्यते, न अभिमानहीनानां परिव्राजकादीना-
म् । अतश्च लौकिकस्यापि पुंसः सम्यग्दशनार्थवत्त्वं दृष्टम्,
किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैत-
न्यमात्रस्वरूपस्येति ; तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः ।
प्रकाशादिवदिति निदर्शनोपन्यासः - प्रकाशः सौरचान्द्रम-
सो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात्
तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रति-
पद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते, यथा च आकाशो
घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो
गच्छति, यथा च उदशरावादिकम्पनात्तद्गते सूर्य प्रतिबिम्बे
कम्पमानेऽपि न तद्वान्सूर्यः कम्पते - एवम विद्याप्रत्युपस्थापिते
बुद्धयापहिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानी-
श्वरो दुःखायते । जीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्यु-
क्तम् । तथा च अविद्यानिमित्त जीवभावव्युदासेन ब्रह्मभाव -
मेव जीवस्य प्रतिपादयन्ति वेदान्ताः -- 'तत्त्वमसि' इत्ये-
वमादय: । तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखि-
त्वप्रसङ्गः ॥
स्मरन्ति च ॥ ४७ ॥