2026-05-06 05:21:20 by ambuda-bot
This page has not been fully proofread.
सू. ४६ . ]
द्वितीयोऽध्यायः ।
४८१
लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन अङ्गिनो देवदत्तस्य
दुःखित्वम्, तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नु-
यात्; अतो वरं पूर्वावस्थः संसार एवास्तु- इति सम्य-
ग्दर्शनानर्थक्यप्रसङ्गः स्यात् इति; अत्रोच्यते-
: -
प्रकाशादिवन्नैवं परः ॥ ४६ ॥
यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरोऽनुभ-
वतीति प्रतिजानीमहे; जीवो हि अविद्यावेश्वशात् देहाद्यात्म-
भावमिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम इति अवि-
या कृतं दुःखोपभोगम् अभिमन्यते ; नैवं परमेश्वरस्य दे-
हाद्यात्मभावो दुःखाभिमानो वा अस्ति; जीवस्याप्यविद्याकुं-
तनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुः-
खाभिमानः, न तु पारमार्थिकोऽस्ति ; यथा च स्वदेहगत -
दाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति, तथा
पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवति--
अहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादि-
ष्वभिनिविशमान:; ततश्च निश्चितमेतदवगम्यते - मिथ्या-
भिमानभ्रमनिमित्त एव दुःखानुभव इति । व्यतिरेकदर्शनाच्च
एवमवगम्यते ; तथा हि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु
तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्ये-