2026-05-06 05:21:19 by ambuda-bot
This page has not been fully proofread.
४८०
सूत्रभाष्ये
मन्त्रवर्णाच्च ॥ ४४ ॥
[पा. ३.
मन्त्रवर्णश्चैतमर्थमवगमयति-- ' तावानस्य महिमा । ततो
ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं
दिवि ' इति ; अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमा-
नि निर्दिशति, अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति
प्रयोगात्; अंशः पादो भाग इत्यनर्थान्तरम; तस्मादप्यंश-
त्वावगमः ॥
6
कुता अंशत्वावगम: ?-
अपि च स्मर्यते ॥ ४५ ॥
ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते— 'ममैं-
वांशो जीवलोके जीवभूतः सनातनः' इति तस्मादप्यंश-
त्वावगमः । यत्तूक्तम्, स्वामिभृत्यादिष्वेव ईशित्रीशितव्य भावो
लोके प्रसिद्ध इति —— यद्यप्येषा लोके प्रसिद्धि:, तथापि
शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्य भावश्च निश्चीयते ;
निरतिशयोपाधिसंपन्नश्वेश्वरो निहीनोपाधिसंपन्नाञ्जीवान् प्र-
शास्तीति न किंचिद्विप्रतिषिध्यते ॥
अत्राह - ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन सं-
सारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् - यथा