2026-05-06 05:21:19 by ambuda-bot
This page has not been fully proofread.
सू. ४३ . ]
6
द्वितीयोऽध्यायः ।
:;
४७९
नासति भेदे युज्यते । ननु च अयं नानाव्यपदेश: सुतरां स्वा-
मिभृत्यसारूप्ये युज्यत इति, अत आह-
-अन्यथा चापीति ;
न च नानाव्यपदेशादेव केवलादेशत्वप्रतिपत्तिः; किं तर्हि,
अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः ; तथा
ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका
ब्रह्मसूक्ते— ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवा: '
इत्यादिना ; दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमी
दासाः स्वामिष्वात्मानमुपक्षपयन्ति ये च अन्ये कितवा द्यू-
तकृतः, ते सर्वे ब्रह्मैव - इति हीनजन्तूदाहरणेन सर्वेषामेव
नामरूपकृत कार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह ;
तथा अन्यत्रापि ब्रह्म प्रक्रियायामेवायमर्थः प्रपञ्च्यते- " त्वं
स्त्रीत्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो
दण्डेन वचसि त्वं जातो भवति विश्वतोमुखः' इति,
'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्य-
दास्ते' इति च; ' नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतिभ्यश्च
अस्यार्थस्य सिद्धि: । चैतन्यं च अविशिष्टं जीवेश्वरयोः,
यथाग्निविस्फुलिङ्गयो रौष्ण्यम् । अतो भेदाभेदावगमाभ्यामंश-
त्वावगमः ॥
कुतश्च अंशत्वावगम: ?-