Proofing

This page has not been fully proofread.

४७८
 
सूत्रभाष्ये
 
[पा. ३.
 
तथा देशकालनिमित्तानाम् ; पूर्वोक्तदोषप्रसङ्गश्च -- इत्येवंजा-
तीयकं दोषजातमादिग्रहणेन दर्शयति ॥
 
अंशो नानाव्यपदेशादन्यथा चापि दाश-
कितवादित्वमधीयत एके ॥ ४३ ॥
 
जीवेश्वरयोरुपकार्योपकारकभाव उक्तः स च संबद्धयो-
 
रेव लोके दृष्ट:-
 
१७. अंशाधि-
 
करणम् ।
 
------
 
- यथा स्वामिभृत्ययोः, यथा वा अग्निविस्फु-
लिङ्गयो:; ततश्च जीवेश्वरयोरप्युपकार्योप-
कारकभावाभ्युपगमात् किं स्वामिभृत्यव -
त्संबन्ध:, आहोस्विदग्निविस्फुलिङ्गवत् ? इत्यस्यां विचिकि-
त्सायाम् अनियमो वा प्राप्नोति । अथवा स्वामिभृत्यप्रकारेष्वेव
ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति
प्राप्नोति ॥
 
अतो ब्रवीति अंश इति ; जीव ईश्वरस्यांशो भवितुमर्हति,
यथाग्नेर्विस्फुलिङ्गः; अंश इवांश: ; न हि निरवयवस्य मु-
ख्योंऽशः संभवति ; कस्मात्पुनः निरवयवत्वात् स एव न
भवति ? नानाव्यपदेशात्; ' सोऽन्वेष्टव्यः स विजिज्ञासि -
तव्य: ' ' एतमेव विदित्वा मुनिर्भवति ' ' य आत्मनि तिष्ठ-
नात्मानमन्तरो यमयति' इति च एवंजातीयको भेदनिर्देशो