2026-05-06 05:21:18 by ambuda-bot
This page has not been fully proofread.
सू. ४२. ]
"
द्वितीयोऽध्यायः ।
४७७
पेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवत् ईश्वरो निमि
तत्वमात्रेण - यथा लोके नानाविधानां गुच्छगुल्मादीनां
व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां
साधारणं निमित्तं भवति पर्जन्य :- न हि असति पर्जन्ये
रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबी-
जेषु - एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्या-
दिति यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायन्ते
कर्तृत्वे नोपपद्यते - नैष दोष: ; परायन्तेऽपि हि कर्तृत्वे, क-
रोत्येव जीवः कुर्वन्तं हि तमीश्वरः कारयति ; अपि च पू-
प्रयत्रमपेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्व-
मकारयदिति – अनादित्वात्संसारस्येति — अनवद्यम् । कथं
पुनरवगम्यते - कृतप्रयत्नापेक्ष ईश्वर इति ? विहितप्रति-
षिद्धावैयर्थ्यादिभ्यः इत्याह ; एवं हि ' स्वर्गकामो यजेत '
'ब्राह्मणो न हन्तव्यः' इत्येवंजातीयकस्य विहितस्य प्रति-
षिद्धस्य च अवैयर्थ्यं भवति; अन्यथा तदनर्थकं स्यात्;
ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जी-
वस्य ; तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिषिद्धका-
रिणमप्यर्थेन ; ततश्च प्रामाण्यं वेदस्यास्तमियात्; ईश्वरस्य
च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम्,