2026-05-06 05:21:17 by ambuda-bot
This page has not been fully proofread.
४७६
सूत्रभाष्ये ।
[पा. ३.
मिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवा-
सात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्व लक्षणस्य
संसारस्य सिद्धि: ; तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसि-
द्धिर्भवितुमर्हति ; कुतः ? तच्छ्रुतेः ; यद्यपि दोषप्रयुक्तः
सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु
नेश्वरकारणत्वं प्रसिद्धम्, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो
हेतुकर्तेति श्रुतेरवसीयते; तथा हि श्रुतिर्भवति - ' एष ह्येव
साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष
ह्येवासाधु कर्म कारयति तं यमधो निनीषते' इति,
आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इति च एवं-
" य
जातीयका ॥
ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्या-
ताम्, अकृताभ्यागमश्च जीवस्येति ; नेत्युच्यते----
तु
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावे-
यर्थ्यादिभ्यः ॥ ४२ ॥
शब्दचोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीव-
स्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वर: कारयति ; अत-
चैते चोदिता दोषा न प्रसज्यन्ते - जीवकृतधर्माधर्मवैषम्या-