2026-05-06 05:21:17 by ambuda-bot
This page has not been fully proofread.
सू. ४१.]
द्वितीयोऽध्यायः ।
परात्तु तच्छ्रुतेः ॥ ४१ ॥
४७५
यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभि-
हितम्, तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति
१६. परायत्ता- भवति विचारणा । तत्र प्राप्तं तावत्-नेश्व-
धिकरणम् । रमपेक्षते जीवः कर्तृत्व इति ; कस्मात् ? अ-
पेक्षाप्रयोजनाभावात्; अयं हि जीवः स्वयमेव रागद्वेषादिदो-
षप्रयुक्तः कारकान्तरसामग्रीसंपन्नः कर्तृत्वमनुभवितुं शक्नो -
ति; तस्य किमीश्वरः करिष्यति ? न च लोके प्रसिद्धरस्ति-
कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य
इति । क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं
प्रसज्येत ; विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम् ।
'वैषम्यनैर्धृन सापेक्षत्वात्' इत्युक्तम् - सत्यमुक्तम्,
सति तु ईश्वरस्य सापेक्षत्वसंभवे; सापेक्षत्वं च ईश्वरस्य
संभवति सतोर्जन्तूनां धर्माधर्मयोः ; तयोश्च सद्भावः सति
जीवस्य कर्तृत्वे; तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्, किं-
विषयमीश्वरस्य सापेक्षत्वमुच्येत । अकृताभ्यागमचैवं जी-
वस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति -- एतां
प्राप्तिं तु शब्देन व्यावर्त्य प्रतिजानीते -- परादिति ; अवि-
द्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्या विद्याति-