2026-05-06 05:21:16 by ambuda-bot
This page has not been fully proofread.
४७४
K
पाठाच्च,
"
सूत्रभाष्ये ।
[पा. ३.
क्ष्यते, न स्वातन्त्र्यं कस्यचित्, अबुद्धिपूर्वकस्यापि स्वापे
करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः,
' विज्ञानं यज्ञं तनुते' इति, स बुद्धेरेव कर्तृत्वं प्राप-
यति - विज्ञानशब्दस्य तत्र प्रसिद्धत्वात्, मनोऽनन्तरं
तस्य श्रद्धैव शिर:' इति च विज्ञानमयस्या-
त्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् - श्रद्धादीनां च बुद्धिधर्म-
त्वप्रसिद्धेः, ' विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते ' इति च
वाक्यशेषात्- ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्ध-
त्वात्, ' स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः' इति च
श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् । न च बुद्धेः
शक्तिविपर्यय: करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकार-
काणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात; उपल-
ब्यपेक्षं त्वेषां करणानां करणत्वम्; सा चात्मनः; न च
तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात् । अहं-
कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति अहंकारस्याप्यु-
पलभ्यमानत्वात्; न चैवं सति करणान्तरकल्पनाप्रसङ्गः,
बुद्धेः करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थवत्वे-
नैव परिहृतः यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधा-
नात् । तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥
,