Proofing

This page has not been fully proofread.

सू. ४०.]
 
द्वितीयोऽध्यायः ।
 
४७३
 
त-
 
वर्तते इति विहार उपदिश्यमानः केवलस्यात्मन: कर्तृत्वमा-
वहति ; तथोपादानेऽपि ' तदेषां प्राणानां विज्ञानेन विज्ञान -
मादाय' इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्या-
त्मन: कर्तृत्वं गमयत इति ; अत्रोच्यते-- न तावत्संध्ये
स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति 'सधी: स्वप्नो भू-
त्वेमं लोकमतिक्रामति' इति तत्रापि धीसंबन्धश्रवणात् ;
था च स्मरन्ति --' इन्द्रियाणामुपरमे मनोऽनुपरतं यदि ।
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्' इति कामादयश्च
मनसो वृत्तयः इति श्रुतिः ; ताच स्वप्ने दृश्यन्ते; तस्मात्स-
मना एव स्वप्ने विहरति ; विहारोऽपि च तत्रत्यो वासना-
मय एव, न तु पारमार्थिकोऽस्ति ; तथा च श्रुतिः इवकारा-
नुबद्धमेव स्वनव्यापारं वर्णयति - ' उतेव स्त्रीभिः सह मो-
दमानो जक्षदुतेवापि भयानि पश्यन्' इति; लौकिका अपि
तथैव स्वप्नं कथयन्ति -- आरुक्षमिव गिरिशृङ्गम्, अद्राक्षमि-
व वनराजिमिति ; तथोपादानेऽपि यद्यपि करणेषु कर्मकर-
णविभक्तिनिर्देश:, तथापि तत्संपृक्तस्यैवात्मन: कर्तृत्वं द्रष्ट-
 
"
 
केवले कर्तृत्वासंभवस्य दर्शितत्वात् भवति च लो-
केऽनेकप्रकारा विवक्षा — योधा युध्यन्ते, योधै राजा युध्यत
इति । अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विव-
 
1
 
S. W. II. 13