Proofing

This page has not been fully proofread.

४७२
 
सूत्रभाष्ये
 
[पा. ३.
 
तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो-
Sad सुखी भवति संप्रसादावस्थायाम् — तथा मुक्त्यव-
स्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो
निर्वृत्तः सुखी भवति । तदृष्टान्तश्चैतावतांशेन द्रष्टव्यः --
तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि
करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तेव ;
एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि
कर्ता भवति, स्वात्मना तु कर्तेवेति । न तु आत्मनस्तक्ष्ण
इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा,
मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ॥
 
यत्तूक्तम्, शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः
कर्तृत्वमिति, तन्न - विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादा-
य कर्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति ;
न च स्वाभाविकमस्य कर्तृत्वमस्ति ब्रह्मात्मत्वोपदेशात्-
इत्यवोचाम; तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं
प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुषः - इत्येवंजातीयकमपि
शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्य-
ति । एतेन विहारोपादाने परिहृते तयोरप्यनुवादरूपत्वात् ।
ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परि-