Proofing

This page has not been fully proofread.

सू. ४०. ]
 
6
 
द्वितीयोऽध्यायः ।
 
,
 
४७१
 
माजीवः कर्ता, बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् -
न, अविद्या प्रत्युपस्थापितत्वात्कर्तृत्व भोक्तृत्वयोः ; तथा च
शास्त्रम् — ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्य-
ति' इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्याव
स्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति— 'यत्र त्वस्य
सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति तथा स्वप्नजागरि-
तयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिप-
ततः श्रावयित्वा तद्भावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्व-
तस्य श्रावयति- ' तद्वा अस्यैतदाप्तकाममात्मकाममकामं
रूपं शोकान्तरम्' इत्यारभ्य ' एषास्य परमा गतिरेषास्य
परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द : '
इत्युपसंहारात् ॥
 
'
 
तदेतदाहाचार्य:- यथा च तक्षोभयथा' इति ।
त्वर्थे च अयं चः पठित: । नैवं मन्तव्यम् - स्वाभाविकमे-
वात्मनः कर्तृत्वम्, अग्नेरिवौष्ण्यमिति ; यथा तु तक्षा लोके
वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं
प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापार:
सुखी भवति — एवमविद्याप्रत्युपस्थापितद्वैत संपृक्त आत्मा
स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनु-