2026-05-06 05:21:14 by ambuda-bot
This page has not been fully proofread.
४७०
सूत्रभाष्ये
[पा. ३.
वादहेत्वभावादिति । एवं प्राप्ते, ब्रूमः - न स्वाभाविकं
कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात्; कर्तृत्वस्वभा-
वत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति — अग्नेरिवौ-
ष्ण्यात्; न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः,
कर्तृत्वस्य दुःखरूपत्वात् । ननु स्थितायामपि कर्तृत्वशक्ती
कर्तृत्व कार्यपरिहारात्पुरुषार्थ : सेत्स्यति ; तत्परिहारश्च निमि-
तपरिहारात् - यथाभेर्दहनशक्तियुक्तस्यापि काष्ठवियोगा-
दहनकार्याभाव:- तद्वत् - न, निमित्तानामपि शक्तिल-
क्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभावात् । ननु
मोक्षसाधनविधानान्मोक्ष: सेत्स्यति -- न, साधनायत्तस्य
अनित्यत्वात् । अपि च नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्ष-
सिद्धिरभिमता; ताद्यगात्मप्रतिपादनं च न स्वाभाविके कर्तृ-
त्वेsaकल्पेत; तस्मात् उपाधिधर्माध्यासेनैवात्मन: कर्तृत्वम
न स्वाभाविकम् ; तथा च श्रुतिः - 'ध्यायतीव लेलायतीव '
इति 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति च-
उपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति । न
हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा वि-
द्यते, 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रवणात् । पर एव तर्हि
संसारी कर्ता भोक्ता च प्रसज्येत; परस्मादन्यश्चेच्विति-