2026-05-06 05:21:12 by ambuda-bot
This page has not been fully proofread.
सू. ४०.]
द्वितीयोऽध्यायः ।
४६९
यत्वमभ्युपगन्तव्यम्, अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र
दर्शनात् - ' अहं गच्छामि, अहमागच्छामि, अहं भुजे,
अहं पिबामि' इति च ; तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थ-
कारि करणमन्यत्कल्पयितव्यम्; शक्तोऽपि हि सन् कर्ता
करणमुपादाय क्रियासु प्रवर्तमानो दृश्यते ; ततश्च संज्ञामात्रे
विवादः स्यात्, न वस्तुभेदः कश्चित् करणव्यतिरिक्तस्य
कर्तृत्वाभ्युपगमात् ॥
समाध्यभावाच्च ॥ ३९ ॥
योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो
वेदान्तेषु — 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्य: ' 'ओ-
मित्येवं ध्यायथ आत्मानम्' इत्येवंलक्षणः, सोऽप्यसत्यात्मनः
कर्तृत्वेनोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥
यथा च तक्षोभयथा ॥ ४० ॥
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य
प्रदर्शितम् ; तत्पुनः स्वाभाविकं वा स्यात्, उपाधिनिमित्तं
वेति चिन्त्यते । तत्रैतैरेव शास्त्रार्थवत्वा-
१५. तक्षाधि-
करणम् । दिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम्, अप-