2026-05-06 05:21:12 by ambuda-bot
This page has not been fully proofread.
४६८
सूत्रभाष्ये
[पा. ३.
न विपरीतम् ; विपरीतमपि तु संपादयन्नुपलभ्यते ; न च
स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति, अत
उत्तरं पठति
उपलब्धिवनियमः ॥ ३७ ॥
यथायमात्मोपलब्धि प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं
च उपलभते, एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति ; उप-
लब्धावप्यस्वातन्त्र्यम्, उपलब्धिहेतूपादानोपलम्भादिति चे-
त्, न, विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् ;
उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात् । अपि च
अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशका -
लनिमित्तविशेषापेक्षत्वात् ; न च सहायापेक्षस्य कर्तुः कर्तृत्वं
निवर्तते; भवति ह्येधोदकाद्यपेक्षस्यापि पक्तः पक्तृत्वम् ;
सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरा-
त्मनो न विरुध्यते ॥
शक्तिविपर्ययात् ॥ ३८ ॥
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति ।
यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् ततः
शक्तिविपर्ययः स्यात् — करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चा-
पद्येत; सत्यां च बुद्धेः कर्तृशक्तौ तस्या एव अहंप्रत्ययविष-
"