2026-05-06 05:21:12 by ambuda-bot
This page has not been fully proofread.
सू. ३६.] द्वितीयोऽध्यायः ।
उपादानात् ॥ ३५ ॥
४६७
इतश्चास्य कर्तृत्वम्, यज्जीवप्रक्रियायामेव करणानामुपादा-
नं संकीर्तयति — ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय '
इति, ' प्राणान्गृहीत्वा' इति च ॥
व्यपदेशाच्च क्रियायां न चेन्निर्देश-
विपर्ययः ॥ ३६ ॥
इतश्च जीवस्य कर्तृत्वम्, यदस्य लौकिकीषु वैदिकीषु च
क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् ' विज्ञानं यज्ञं तनुते
कर्माणि तनुतेऽपि च' इति । ननु विज्ञानशब्दो बुद्धौ सम-
धिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यते
',
— जीवस्यैवैष निर्देश:, न बुद्धेः न चेज्जीवस्य स्यात्,
--
,
निर्देशविपर्ययः स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत् ; तथा हि
अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो
दृश्यते— ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति ;
इह तु 'विज्ञानं यज्ञं तनुते ' इति कर्तृसामानाधिकरण्यनि-
र्देशाद्वुद्धिव्यतिरिक्तस्यैवात्मन: कर्तृत्वं सूच्यत इत्यदोषः ॥
अत्राह – यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्, स
स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन संपादयेत्,