2026-05-06 05:21:11 by ambuda-bot
This page has not been fully proofread.
४६६
सूत्रभाष्ये
[पा. ३.
6
तन्मनः । तथा च श्रुति:-
: - ' अन्यत्रमना अभूवं नादर्शमन्य-
त्रमना अभूवं नाश्रौषम्' इति, 'मनसा ह्येव पश्यति मन-
सा शृणोति' इति च ; कामादयश्चास्य वृत्तय इति दर्शयति-
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्धी-
भरित्येतत्सर्वं मन एव' इति । तस्माद्युक्तमेतत्तद्गुणसा-
रत्वात्तद्व्यपदेश इति ॥
कर्ता शास्त्रार्थत्वात् ॥ ३३ ॥
तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते ।
कर्ता च अयं जीवः स्यात् ; कस्मात् ? शास्त्रार्थवत्त्वात्-
१४. कधि- एवं च
6
'यजेत ' 'जुहुयात् ' ' दद्यात् '
करणम् । इत्येवंविधं विधिशास्त्रमर्थवद्भवति ; अन्य-
था तदनर्थकं स्यात्; तद्धि कर्तुः सतः कर्तव्यविशेषमुपदि-
शति ; न च असति कर्तृत्वे तदुपपद्येत । तथेदमपि शास्त्रम-
र्थवद्भवति - एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञा-
नात्मा पुरुष:' इति ॥
विहारोपदेशात् ॥ ३४ ॥
इतश्च जीवस्य कर्तृत्वम्, यज्जीवप्रक्रियायां संध्ये स्थाने
विहारमुपदिशति - ' स ईयतेऽमृतो यत्र कामम्' इति,
'स्वे शरीरे यथाकामं परिवर्तते ' इति च ॥