2026-05-06 05:21:10 by ambuda-bot
This page has not been fully proofread.
सू. ३२. ]
द्वितीयोऽध्यायः ।
४६५
द्यामह इति ' ' त इह व्याघ्रो वा सिंहो वा' इत्यादिना ।
तस्मात्सिद्धमेतत्-यावदात्मभावी बुद्धवाद्युपाधिसंबन्ध इति ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतर-
नियमो वान्यथा ॥ ३२ ॥
तच्चात्मन उपाधिभूतम् - अन्तःकरणं मनो बुद्धिर्विज्ञानं
चित्तमिति च अनेकधा तत्र तत्राभिलप्यते ; कचिच्च वृत्तिवि-
भागेन - संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं
बुद्धिरिति ; तचैवं भूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्त-
व्यम्, अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुप-
लब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधना-
नां संनिधाने सति नित्यमेवोपलब्धि: प्रसज्येत ; अथ
सत्यपि हेतुसमवधाने फलाभाव:, ततो नित्यमेवा-
नुपलब्धि: प्रसज्येत ; न चैवं दृश्यते । अथवा
अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्यु-
पगन्तव्य: ; न च आत्मन: शक्तिप्रतिबन्धः संभवति,
अविक्रियत्वात् ; नापि इन्द्रियस्य ; न हि तस्य पूर्वोत्तरयो: क्ष-
णयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्ति: प्रतिबध्येत ।
तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः,