Proofing

This page has not been fully proofread.

४६४
 
सूत्रभाष्ये
 
[पा. ३.
 
दन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं
बुद्ध्युपाधिसंबन्धो न शाम्यति ; दर्शयति च - - ' वेदाहमेतं
पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वा -
ति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' इति ॥
 
ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्ध आत्मनोऽभ्यु-
पगन्तुम्, 'सता सोम्य तदा संपन्नो भवति स्वमपीतो भ-
वति' इति वचनात् कृत्स्नविकारप्रलयाभ्युपगमांच; तत्क-
थं यावदात्मभावत्वं बुद्धिसंबन्धस्येति, अत्रोच्यते--
 
पुंस्त्वादिवत्त्वस्य सतोऽभिव्य-
क्तियोगात् ॥ ३१ ॥
 
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बा -
ल्यादिष्वनुपलभ्यमानान्यविद्यमानवभिप्रेयमाणानि यौवना-
दिष्वाविर्भवन्ति ; न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि
तदुत्पत्तिप्रसङ्गात् -- एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना
विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भव-
ति; एवं हि एतद्युज्यते ; न हि आकस्मिकी कस्यचिदुत्पत्तिः
संभवति, अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्म-
कबीजसद्भावकारितम्' सति संपद्य न विदुः सति संप-