Proofing

This page has not been fully proofread.

सू. ३०.]
 
द्वितीयोऽध्यायः ।
 
४६३
 
धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते - 'नान्यो-
saisस्ति द्रष्टा श्रोता मन्ता विज्ञाता' ' नान्यदतोऽस्ति द्रष्टृ
 
1
 
"
 
श्रोतृ मन्तृ विज्ञातृ 'तत्त्वमसि' ' अहं ब्रह्मास्मि' इत्या-
दिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धि-
संयोग इति तद्दर्शनादित्याह ; तथा हि शास्त्रं दर्शयति-
' योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स
समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव '
इत्यादि ; तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति,
प्रदेशान्तरे 'विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्र-
मय:' इति विज्ञानमयस्य मनआदिभिः सह पाठात् ; बुद्धि-
मयत्वं च तद्गुणसारत्वमेवाभिप्रेयते यथा लोके स्त्रीमयो
देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् ; 'स
समानः सन्नुभौ लोकावनुसंचरति' इति च लोकान्त-
रगमनेऽप्यवियोगं बुद्धया दर्शयति ; केन समान: ?
तयैव बुद्धयेति गम्यते, संनिधानात् तच्च दर्शयति-- ' ध्या-
यतीव लेलायतीव' इति ; एतदुक्तं भवति -- नायं स्वतो
ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चल-
त्यां बुद्धौ चलतीवेति । अपि च मिथ्याज्ञानपुरः सरोऽयमात्म-
नो बुद्ध्युपाधिसंबन्ध: ; न च मिथ्याज्ञानस्य सम्यग्ज्ञाना-