2026-05-06 05:21:09 by ambuda-bot
This page has not been fully proofread.
४६२
सूत्रभाष्ये
[पा. ३.
त्वादिव्यपदेशः, प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः स-
गुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वा दिव्यपदेश:-
"
अणीयान्त्रीहेर्वा यवाद्वा ' मनोमय: प्राणमयः प्राणशरीरः
सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्प:' इत्येवंप्रकार:
- तद्वत् ॥
स्यादेतत्- यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं
कल्प्येत, ततो बुद्ध्यात्मनोभिन्नयोः संयोगावसानमवश्यं-
भावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वा-
दसवम संसारित्वं वा प्रसज्येतेति — अत उत्तरं पठति-
यावदात्मभावित्वाच्च न दोष-
स्तद्दर्शनात् ॥ ३० ॥
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया; कस्मात् ? याव-
दात्मभावित्वाद्बुद्धिसंयोगस्य — यावदयमात्मा संसारी भव-
ति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, ताव-
दस्य बुद्धया संयोगो न शाम्यति ; यावदेव चायं बुद्ध्युपा-
धिसंबन्धः, तावदेवास्य जीवत्वं संसारित्वं च; परमार्थ-
तस्तु न जीवो नाम बुद्धयुपाधिपरिकल्पितस्वरूपव्यतिरेके-
शास्ति ; न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो