Proofing

This page has not been fully proofread.

सू. २९.]
 
द्वितीयोऽध्यायः ।
 
४६१
 
स्पेत ; न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम्, स-
र्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् । तथे-
तरस्मिन्नप्युन्माने 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो
ह्यवरोऽपि दृष्ट:' इति च बुद्धिगुणसंबन्धेनैव आराग्रमात्रतां
शास्ति, न स्वेनैवात्मना । 'एषोऽणुरात्मा चेतसा वेदित-
व्यः' इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, पर-
स्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृ-
तत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः ; त-
स्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम्, उपाध्यभिप्रायं वा
द्रष्टव्यम् । तथा ' प्रज्ञया शरीरं समारुह्य' इत्येवजातीयके-
ष्वपि भेदोपदेशेषु --- बुद्धयैवोपाधिभूतया जीवः शरीरं स-
मारुह्य - इत्येवं योजयितव्यम्, व्यपदेशमात्रं वा - शिला-
पुत्रकस्य शरीरमित्यादिवत् ; न ह्यत्र गुणगुणिविभागोऽपि
विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव तदाय-
तनत्वात् । तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति-
 
6
 
96
 
कस्मिन्नु अहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्र-
तिष्ठिते प्रतिष्ठास्यामीति ' ' स प्राणमसृजत' इति ; उत्क्रान्त्य-
भावे हि गत्यागत्योरप्यभावो विज्ञायते ; न हि अनपसृप्तस्य
देहाद्रत्यागती स्याताम् । एवमुपाधिगुणसारत्वाज्जीवस्याणु-