Proofing

This page has not been fully proofread.

४६०
 
सूत्रभाष्ये
 
[पा. ३.
 
पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्' इति । यदि च
चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयात्, नाणुर्जीवः स्यात् ;
चैतन्यमेव हि अस्य स्वरूपम्, अग्नेरिवौष्ण्यप्रकाशौ- - नात्र
गुणगुणिविभागो विद्यत इति । शरीरपरिमाणत्वं च प्रत्या-
ख्यातम् । परिशेषाद्विभुर्जीवः ॥
 
c
 
कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह-तद्गुणसारत्वात्तु
तद्व्यपदेश इति । तस्या बुद्धे: गुणास्तद्गुणा: - इच्छा द्वेषः
सुखं दुःखमित्येवमादय: - तद्गुणा: सारः प्रधानं यस्या-
त्मनः संसारित्वे संभवति, स तद्गुणसारः, तस्य भावस्तद्गु-
णसारत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्य आत्मन: संसारि-
त्वमस्ति; बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वा-
दिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमु-
तस्य सत आत्मन: ; तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य
परिमाणव्यपदेशः, तदुत्कान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्य-
पदेशः, न स्वतः । तथा च -- ' वालाग्रशतभागस्य शतधा
कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय
कल्पते' इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ;
तञ्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य
भवेत्, पारमार्थिकं च आनन्त्यम् ; न हि उभयं मुख्यमवक-
 
-