Proofing

This page has not been fully proofread.

सू. २९.]
 
द्वितीयोऽध्यायः ।
 
तद्गुणसारत्वात्तु तद्व्यपदेश:
प्राज्ञवत् ॥ २९ ॥
 
;
 
४५९
 
तु-शब्द: पक्षं व्यावर्तयति । नैतदस्ति -- अणुरात्मेति ;
उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्यो-
पदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्; परमेव चेद्ब्रह्म जीवः,
तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति ; परस्य च
ब्रह्मणो विभुत्वमानातम्; तस्माद्विभुर्जीवः तथा च 'सवा
एष महान आत्मा योऽयं विज्ञानमयः प्राणेषु' इत्येवंजा-
तीयका जीवविषया विभुत्ववादा: श्रौता: स्मार्ताश्च समर्थि-
ता भवन्ति । न च अणोर्जीवस्य सकलशरीरगता वेदनोप-
पद्यते ; त्वक्संबन्धात्स्यादिति चेत्, न; कण्टकतोदनेऽपि
सकलशरीरगतैव वेदना प्रसज्येत - त्वक्कण्टकयोर्हि संयोगः
कृत्स्नायां त्वचि वर्तते - त्वक्च कृत्स्नशरीरव्यापिनीति ;
पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते । न च अ-
गोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्; गुणत्वमेव हि
गुणिनमनाश्रित्य गुणस्य होयेत; प्रदीपप्रभायाश्च द्रव्यान्तरत्वं
व्याख्यातम् । गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव संच-
रितुमर्हति अन्यथा गुणत्वहानिप्रसङ्गात् ; तथा चोक्तं भग-
वता द्वैपायनेन --' उपलभ्याप्सु चेद्गन्धं केचिद्रूयुरनैपुणाः ।
 
'