2026-05-06 05:21:06 by ambuda-bot
This page has not been fully proofread.
४५८
सूत्रभाष्ये
त;
[पा. ३.
- गन्धवत्र्यमात्रातमिति गन्ध एव आत्रात इति तु
लौकिकाः प्रतियन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्ग-
न्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेन् न; प्रत्यक्षत्वादनु-
"
मानाप्रवृत्तेः; तस्मात् यत् यथा लोके दृष्टम् तत् तथैव
अनुमन्तव्यं निरूपकैः, नान्यथा न हि रसो गुणो जिहयो-
पलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति
नियन्तुं शक्यते ॥
तथा च दर्शयति ॥ २७ ॥
हृदयायतनत्वमणुपरिमाणत्वं च आत्मन: अभिधाय तस्यैव
'आ लोमभ्य आ नखाग्रेभ्य:' इति चैतन्येन गुणेन सम-
म्तशरीरव्यापित्वं दर्शयति ॥
6
पृथगुपदेशात् ॥ २८ ॥
प्रज्ञया शरीरं समारुह्य' इति च आत्मप्रज्ञयोः कर्तृ-
करणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता
गम्यते । ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति च
कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बल-
यति । तस्मादणुरात्मेति ॥
एवं प्राप्ते,
ब्रूमः-