Proofing

This page has not been fully proofread.

सू. २६.]
 
द्वितीयोऽध्यायः
 
1: 1
 
४५७
 
कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ? न हि
पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते ।
प्रदीपप्रभावद्भवेदिति चेत्, न; तस्या अपि द्रव्यत्वाभ्युपग-
मानू — निबिडावयवं हि तेजोद्रव्यं प्रदीप:, प्रविरलावयवं
तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति-
 
व्यतिरेको गन्धवत् ॥ २६ ॥
 
यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण
वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धो-
पलब्धेः ; एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको
भविष्यति । अतञ्चानैकान्तिकमेतत् — गुणत्वाद्रूपादिवदा-
श्रयविश्लेषानुपपत्तिरिति, गुणस्यैव सतो गन्धस्य आश्रय-
विश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत्,
न; यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात् ; अक्षीयमा-
णमपि तत्पूर्वावस्थातो गम्यते; अन्यथा तत्पूर्वावस्थैर्गुरुत्वा-
दिभिर्होयेत । स्थादेतत् -- गन्धाश्रयाणां विशिष्टानामवयवा-
नामल्पत्वात् सन्नपि विश्लेषो नोपलक्ष्यते; सूक्ष्मा हि गन्ध-
परमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिका -
पुटमनुप्रविशन्त इति चेत्, न अतीन्द्रियत्वात्परमाणूनाम्,
स्फुटगन्धोपलब्धेश्च नागकेसरादिषु ; न च लोके प्रतीति:
 
s. w. II. 12