2026-05-06 05:21:05 by ambuda-bot
This page has not been fully proofread.
४५६
सूत्रभाष्ये
[पा. ३.
दप्युच्येत - न च अत्रानुमानं संभवति - किमात्मनः सकल-
शरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः,
किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदे-
शस्थस्य इति संशयानतिवृत्तेरिति ; अत्रोच्यते- नायं दोषः
कस्मात् ? अभ्युपगमात् । अभ्युपगम्यते हि आत्मनोऽपि च-
न्दनस्यैव देकदेशवृत्तित्वमवस्थितिवैशेष्यम् ; कथमिति, उ-
च्यते-हृदि ह्येष आत्मा पठ्यते वेदान्तेषु, 'हृदि ह्येष आत्मा'
6
,
८
;
स वा एष आत्मा हृदि ' कतम आत्मेति योऽयं
विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष: ' इत्याद्युपदेशेभ्यः ।
तस्माद्दृष्टान्तदाष्टन्तिकयोरवैषम्यात् युक्तमेवैतत् - ' अविरो-
धश्चन्दनवत्' इति ॥
गुणाद्वा लोकवत् ॥ २५ ॥
चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेह-
व्यापि कार्यं न विरुध्यते-- यथा लोके मणिप्रदीपप्रभृती-
नामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती
कृत्स्नेऽपवरके कार्य करोति तद्वत् । स्यात् कदाचिच्च-
न्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आ-
ह्रादयितृत्वम् ; न त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकल-
देहं विसर्पेत् -- इत्याशङ्कय 'गुणाद्वा लोकवत् ' इत्युक्तम् ॥