This page has not been fully proofread.

एकोनविंश: : पटलः ।
 
३०३
 
यकारजेऽरिशङ्खौ च सगदाहलशार्ङ्गकाः ।
 
मुसल उङ्गशूलौ च तृतीया साक्षरोद्भवे ॥ ५६ ॥
 
शेषो वासुकितक्षक-
 
कार्कोटकपङ्कजमहापद्माः ।
 
वरपाल गुलिकसंज्ञा-
 
स्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ ५७ ॥
 
अङ्गैः प्रथमावरणं
 
मूर्तिभिरपि शक्तिभिर्द्वितीयमपि ।
 
अन्यैः केशव केत्वा-
 
दिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ ५८ ॥
 
मत्स्यः कूर्मवराहौ
 
नृसिंहकुब्ज विरामकृष्णाश्च ।
 
कल्कि: सानन्तात्मा
 

 
पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ ५९ ॥
 
सप्तममपि लोकेशै-
 
रष्टममपि तदायुधैश्च संप्रोक्तम् ।