2026-02-24 05:34:27 by ambuda-bot
This page has not been fully proofread.
३०२
प्रपञ्चसारे
अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते'
वर्णाष्टमूर्तीरपि मूर्तिशक्तीः ।
यजेद्विधाने च सके लोक-
पालादिका नुक्तविधानक्लृप्त्या ॥ ५२ ॥
मोकारजे रतिधृती च सकान्तितुष्टि-
पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम ।
केत्वादिकं च सशतक्रतुपूर्वकं च
संपूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ ५३ ।
नाकारजेऽङ्गतोऽन्ते
प्रपूजयेन्मूर्तिशक्तिलोकेशान ।
रावर्णजेऽङ्गमूर्ति-
श्रीभूमायामनोन्मनीस्तदनु ॥ ५४ ॥
ह्री श्री रतिः सपुष्टि -
मोहनिमाये महादियोगाद्ये ।
माये च तृतीयावृति-
रन्यदशेषं पुरैव निर्दिष्टम् ॥ ५५ ॥
1. •जेऽङ्गतो.
प्रपञ्चसारे
अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते'
वर्णाष्टमूर्तीरपि मूर्तिशक्तीः ।
यजेद्विधाने च सके लोक-
पालादिका नुक्तविधानक्लृप्त्या ॥ ५२ ॥
मोकारजे रतिधृती च सकान्तितुष्टि-
पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम ।
केत्वादिकं च सशतक्रतुपूर्वकं च
संपूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ ५३ ।
नाकारजेऽङ्गतोऽन्ते
प्रपूजयेन्मूर्तिशक्तिलोकेशान ।
रावर्णजेऽङ्गमूर्ति-
श्रीभूमायामनोन्मनीस्तदनु ॥ ५४ ॥
ह्री श्री रतिः सपुष्टि -
मोहनिमाये महादियोगाद्ये ।
माये च तृतीयावृति-
रन्यदशेषं पुरैव निर्दिष्टम् ॥ ५५ ॥
1. •जेऽङ्गतो.