This page has not been fully proofread.

एकोनविंश: पटलः ।
 
सिन्दूरकुन्दकरविन्दकबन्धुजीवं-
 
रमीरपद्ममकरन्दरुचः क्रमेण ।
नीलोत्पलाम्बुरुहरागसमानवर्णाः
 
स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ ४८ ॥
 
अरिदर गदाब्जहस्ताः
 
सर्वास्तु नकार मोर्णयोर्मन्त्री ।
 
शङ्खारिगदाब्जकरे
 
लक्षणमन्यत्समानरूपं स्यात् ॥ ४९ ॥
 
या मूर्तिरर्च्यतेऽस्य
 
व्रजन्ति परिवारितां तदवशिष्टाः ।
 
अवशिष्टेऽन्त्येऽथांशे
 
स्वयं च परिवारितां प्रयाति तदा ॥ ५० ॥
 
इयमेवावृतिरधिका
 
ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् ।
 
भवति विधानादिति पुन -
 
रेषां प्रथमं विधानमुद्दिष्टम् ॥ ५१ ॥
 
३०१