This page has not been fully proofread.

३००
 
प्रपञ्चसारे
 
यष्टव्यः स्याद्वासुदेवादिरादौ
 
चक्राद्याः केत्वादिकाः केशवाद्या:
इन्द्राद्याश्वेत्येवमेव प्रदिष्टं
 
तुष्टायुः श्रीकीर्त्तिसिद्ध विधानम् ॥ ४४ ॥
 
स वासुदेवादिकमर्चयित्वा
 
भूयो ध्वजादींश्च पुरंदरादीन् ।
 
क्रमेण विद्वान्विधिनार्चयीत-
 
त्ययं क्रमश्र विदशाभिपूज्यः ॥ ४५ ॥
 
इत्युक्तविधिचतुष्कं
 
पूजयितुरथैकमपि यथाशक्ति ।
 
अचिरेण भवति लक्ष्मी-
 
स्तगता सकलवर्गसिद्धिकरी ॥ ४६ ॥
 
अष्टाक्षराक्षराष्ट्रक-
 
मूर्तिविधानानि भेदभिन्नानि ।
 
वक्ष्याम्यर्चयितॄणां
 
वाञ्छित सकलार्थ साधनानि सदा ॥ ४७ ॥