This page has not been fully proofread.

एकोनविंश: पटलः ।
 
प्रागीरितैरपि जुहोतु दशांशकं वा
 
ब्रध्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा ।
 
:
 
रत्नांशुकप्रवरकाश्चनगोमहीभि-
 
धन्यैर्यथाविभवतः प्रयजेद्ररूंश्च ॥ ४० ॥
 
विप्रान्प्रत विभवैरथ मन्त्रजापी
 
संह्लादयेज्जपविधिं च ततः क्रमेण ।
 
नित्याचना च विहिता विधिनामुनैव
 
२९९
 
प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ ४१ ॥
 
इति जपहुतार्चनायै-
 
मन्त्री योऽष्टाक्षरं समभ्यस्येत् ।
 
स त्वैहिकीं च सिद्धिं
 
• संप्राप्यान्ते प्रयाति परमपदम् ॥ ४२ ॥
 
अङ्गानि पूर्व स्वथ मूर्तिशक्ती :
 
सकेशवादींश्च पुरंदरादीन् ।
 
समर्चयेद्यस्तु विधानमेत-
 
नरोऽचिरात्काङ्क्षितमेति कामम् ॥ ४३ ॥