This page has not been fully proofread.

२९८
 
प्रपञ्चसारे
 
ध्वजः श्यामो विपो रक्तो निधी शुकारुणप्रभौ ।
अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ ३४ ॥
 
इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् ।
इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ ३५ ।
 
एवमभ्यर्चिते विष्णावुपचारैस्तु पूर्ववत् ।
 
अग्निमाधाय कुण्ड तु ब्रह्मयागसमीरितैः ॥ ३६ ॥
 
जुहुयादष्टभिर्द्रव्यैर्मनुनाष्टाक्षरेण तु ।
 
पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ ३७ ॥
 
अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् ।
 
द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः ।
 
तदर्धसंख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ ३८ ॥
 
पद्मासनः प्राग्वदनोऽप्रलापी
 
तन्मानसस्तर्ज निवर्जिताभिः ।
 
अक्षस्रजो वाकुलिभिर्जपेत
 
नातिद्रुतं नातिविलम्बितं च ॥ ३९ ॥