This page has not been fully proofread.

२९६
 
प्रपञ्चसरे
 
श्रीवत्साङ्कतमाभाष्य वक्षःस्थलमधो वदेत् ।
 
श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत् ॥ २३ ॥
 
'दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे ।
 
हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ २४
 
कृत्वा स्थण्डिलमस्मि -
 
निक्षिप्य निजासिकां समुपविश्य ।
 
पीठादिकं निजाङ्ग
 
प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ २५ ॥
 
सद्वादशाक्षरान्तं
 
प्रपूज्य विधिवत्किरीटमन्त्रेण
 
कुर्यात्पुष्पाञ्जलिमप
 
निजदेहे पञ्चशोऽथ वा त्र्यशः ॥ २६ ॥
 
इति दीक्षितविहितविधिः
 
संप्रोक्तोऽष्टाक्षरस्य मन्त्रस्य ।
 
शुद्धानां विमलधियां
 
दीक्षा प्रतिवक्ष्यतेऽथ संक्षेपात् ॥ २७ ॥
 
1. दीप्तिमुक्त्वा धरायेति.