2026-02-24 05:34:25 by ambuda-bot
This page has not been fully proofread.
एकोनविंशः पटलः ।
२९५
ततोऽष्टाक्षरपूर्त्यर्थं स्मर्तव्यो द्वादशाक्षरः ।
मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नास्तनौ न्यसेत् ॥ १५ ॥
अष्टप्रकृत्यात्मकश्च संप्रोक्तोऽष्टाक्षरो मनुः ।
अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ १६ ।
द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः ।
आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ १७ ॥
केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः ।
आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः ॥ १८ ॥
ललाटोदरहृत्कण्ठदक्षपार्श्वासतद्गले ।
तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ १९ ॥
द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् ।
मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ २० ॥
पुनस्तत्प्रतिपत्यर्थ किरीटादिमनुं जपेत् ।
किरीटकेयूरहारपदान्याभ्राष्य मन्त्रवित् ॥ २१ ॥
मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् ।
अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ २२ ॥