This page has not been fully proofread.

एकोनविंशः पटलः ।
 
ऋषिरस्य मनोः साध्यनारायण इतीरितः ।
 
छन्दश्च देवी गायत्री परमात्मा च देवता ॥ ४ ॥
 
अथ क्रुद्ध महावीर सहस्रपदादिकैः ।
 
२९३
 
उल्कैजीतियुतैः कुर्यात्पश्वाङ्गानि मनोः क्रमात् ॥ ५ ॥
 
अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः ।
सहच्छिरः शिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ ६ ।
 
अघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज -
त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च ।
नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्व
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्धं मुकुन्दम् ॥
 
संदीक्षितो मनुममुं प्रतिजतुमिच्छ-
 
कुर्यान्निजेन वपुषैव तु योगपीठम् ।
अंसोरुयुग्मपदमानननाभिमूल-
 
पार्श्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ ८ ॥
 
मध्येऽनन्ताद्यैरपि
 
संज्ञानात्मान्तिकैर्यजेन्मन्त्री ।