2026-02-24 05:34:25 by ambuda-bot
This page has not been fully proofread.
एकोनविंशः पटलः ॥
अथ पुनरभित्रक्ष्ये मन्त्रमष्टाक्षराख्यं
सकलदुरितदुःखध्वान्तसंभेदभानुम् ।
प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
पर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १ ॥
तारः शक्त्युत्थतया
निर्दिष्टः सोऽहमर्थकः पूर्वम् ।
नार्णः प्रतिषेधार्थो
मोकारश्चायमर्थको भवति ॥ २ ॥
सलिलानलपवनधरा:
क्रमेण नारायणाक्षराः प्रोक्ताः ।
चरमेरस्तु विभक्ति-
व्यक्त्यर्थं दर्शितस्तदर्थार्थे ॥ ३ ॥
अथ पुनरभित्रक्ष्ये मन्त्रमष्टाक्षराख्यं
सकलदुरितदुःखध्वान्तसंभेदभानुम् ।
प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ
पर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १ ॥
तारः शक्त्युत्थतया
निर्दिष्टः सोऽहमर्थकः पूर्वम् ।
नार्णः प्रतिषेधार्थो
मोकारश्चायमर्थको भवति ॥ २ ॥
सलिलानलपवनधरा:
क्रमेण नारायणाक्षराः प्रोक्ताः ।
चरमेरस्तु विभक्ति-
व्यक्त्यर्थं दर्शितस्तदर्थार्थे ॥ ३ ॥