2026-02-24 05:34:25 by ambuda-bot
This page has not been fully proofread.
अष्टादशः पटलः ।
२९१
ज्योतिः प्रकाशनं चे-
त्यष्टौ स्युः प्रत्ययायुजः सिद्धेः ।
अणिमा महिमा च तथा
लघिमा गरिमेशिता वशित्वं च ॥ ६२ ॥
प्राप्तिः प्राकाम्यं चे-
त्यष्टैश्वर्याणि योगयुक्तस्य ।
अश्वर्यसमेत
जीवन्मुक्तः प्रवक्ष्यते योगी ।
योगानुभवमहामृत-
रसपानानन्दनिर्भरः सततम् ॥ ६३ ॥
इत्येवं प्रणवविधिः समीरितोऽयं
भक्त्या तं प्रभजति यो जपादिभेदैः ।
संप्राप्नोत्यनुतत नित्यशुद्धबुद्धं
तद्विष्णोः परमतरं पदं नराग्र्यः ॥ ६४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टादशः पटलः ॥
२९१
ज्योतिः प्रकाशनं चे-
त्यष्टौ स्युः प्रत्ययायुजः सिद्धेः ।
अणिमा महिमा च तथा
लघिमा गरिमेशिता वशित्वं च ॥ ६२ ॥
प्राप्तिः प्राकाम्यं चे-
त्यष्टैश्वर्याणि योगयुक्तस्य ।
अश्वर्यसमेत
जीवन्मुक्तः प्रवक्ष्यते योगी ।
योगानुभवमहामृत-
रसपानानन्दनिर्भरः सततम् ॥ ६३ ॥
इत्येवं प्रणवविधिः समीरितोऽयं
भक्त्या तं प्रभजति यो जपादिभेदैः ।
संप्राप्नोत्यनुतत नित्यशुद्धबुद्धं
तद्विष्णोः परमतरं पदं नराग्र्यः ॥ ६४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टादशः पटलः ॥