This page has not been fully proofread.

अष्टादशः पटलः ।
 
२८९
 
उत्क्रान्तौ परकाय-
 
प्रवेशने चागतो पुनः स्वतन 1
 
स्थानानि धारणाया:
 
प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ ५४ ॥
 
स्थानेष्वष्वात्ममन:-
 
समीरसंयोगकर्मणोऽभ्यासात् ।
 
अचिरेणोत्क्रान्त्याद्या
 
भवन्ति संसिद्धयः प्रसिद्धतराः ॥ ५५ ॥
 
कण्ठे भ्रूमध्ये हृदि
 
नाभौ सर्वाङ्गके स्मरेत्क्रमशः ।
 
छवरसमीरखवर्णै-
 
रनिलमहाकालवञ्चनेयं स्यात् ॥ ५६ ॥
 
अवनिजलानलमारुत-
 
विहायसां शक्तिभिश्च तद्विम्बैः ।
 
सारूप्यमात्मनश्च
 
प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ ५७ ॥
 
*P. 19