This page has not been fully proofread.

अष्टादश: पटल: ।
 
२८७
 
अथ वा योगोपेताः
 
पञ्चावस्थाः क्रमेण विज्ञाय ।
 
ताभिर्युञ्जीत सदा
 
योगी सद्यः प्रसिद्धये मुक्तेः ॥ ४६ ॥
 
जाग्रत्स्वप्नसुषुप्ती
 
तुरीयतदतीतको पुनस्तासु ।
 
स्वैरिन्द्रियैर्यदात्मा
 
भुङ्क्ते भोगान्स जागरां भवति ॥ ४७ ॥
 
संज्ञारहितैरपि तै-
 
स्तस्यानुभवो भवेत्पुनः स्वप्नः ।
 
आत्मनिरुद्युक्ततया
 
नैराकुल्यं भवेत्सुषुप्तिरपि ॥ ४८ ॥
 
पश्यति परं यदात्मा
 
निस्तमसा तेजसा तुरीयं तत् ।
 
आत्मपरमात्मपदयो-
 
रभेदतो व्याप्नुयाद्यदा योगी ॥ ४९ ॥