This page has not been fully proofread.

अष्टादश: पटलः ।
 
२८५
 
अथ वा बिन्दुं वर्तुल-
 
मावतैस्त्रिभिरुपेतमेवमिव ।
 
प्रातं रविबिम्बेन च
 
समभ्यसेत्स्रुतसुधामयं तेजः ॥ ३८ ॥
 
अपमृत्यु रोगपापजि-
 
दचिरेण सुसिद्धिदो नृणां योगः ।
 
अथ वा मूलाधारो-
 
त्थिता प्रभा बिसविभेदतन्तुनिभा ॥ ३९ ।
 
वदनामृतकरबिम्ब-
 
स्यूता ध्यातामृताम्बुलवलुलिता ।
 
स्थावरजङ्गमविषह-
 
द्योगोऽयं नात्र संदेहः ॥ ४० ॥
 
अथ वा त्रिवळयबिन्दुग-
 
धाम प्रणवेन संनदूर्ध्वम्
 
पीतोर्णातन्तुनिभं
 
सौषुनेनैव वर्त्मना योगी ॥ ४१ ॥