2026-02-24 05:34:23 by ambuda-bot
This page has not been fully proofread.
२८४
ओंकारो गुणबीजं
प्रपञ्चसारे
प्रणवस्तारो ध्रुवश्च वेदादिः ।
आदिरुमध्यो मपरो
नामन्यस्य त्रिमात्रिकश्च तथा ॥ ३४ ॥
अस्य तु वेदादित्वा-
त्सर्वमनूनां प्रयुज्यतेऽथादौ ।
योनिश्च सर्वदेहे
भवति च स ब्रह्म सर्वसंवादे ॥ ३५ ॥
ऋक् च तदाद्यादिः स्या-
तन्मध्यान्तं यजुश्च मान्तादि: ।
सामापि तस्य भेदा
बहवः प्रोक्ता हि लोकवेदेषु ॥ ३६ ॥
उच्चार्योच्चार्य च तं
क्रमान्नयेदुपरि षड्वयान्तान्तम् ।
मनसा स्मृते यदास्मि-
न्मनो लयं याति तावद्भ्यस्येत् ॥ ३७ ॥
1. मान्तानि । सामानि.
ओंकारो गुणबीजं
प्रपञ्चसारे
प्रणवस्तारो ध्रुवश्च वेदादिः ।
आदिरुमध्यो मपरो
नामन्यस्य त्रिमात्रिकश्च तथा ॥ ३४ ॥
अस्य तु वेदादित्वा-
त्सर्वमनूनां प्रयुज्यतेऽथादौ ।
योनिश्च सर्वदेहे
भवति च स ब्रह्म सर्वसंवादे ॥ ३५ ॥
ऋक् च तदाद्यादिः स्या-
तन्मध्यान्तं यजुश्च मान्तादि: ।
सामापि तस्य भेदा
बहवः प्रोक्ता हि लोकवेदेषु ॥ ३६ ॥
उच्चार्योच्चार्य च तं
क्रमान्नयेदुपरि षड्वयान्तान्तम् ।
मनसा स्मृते यदास्मि-
न्मनो लयं याति तावद्भ्यस्येत् ॥ ३७ ॥
1. मान्तानि । सामानि.