2026-02-24 05:34:23 by ambuda-bot
This page has not been fully proofread.
अष्टादशः पटलः ।
सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः
सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः ।
पटाजिनकुशोत्तरे सुविशदे च मृद्वासने
२८३
निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥। ३० ॥
प्रसारितं वामकरं निजाङ्के
निधाय तस्योपरि दक्षिणं च ।
ऋजुः प्रसन्नो विजितेन्द्रियः स-
न्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ ३१ ॥
तन्मध्यगतं प्रणवं
प्रणवस्थं बिन्दुमपि च बिन्दुगतम् ।
नादं विचिन्त्य तारं
यथावदुञ्चारयेत्सुषुम्नान्तम् ॥ ३२ ॥
तन्मध्यगतं शुद्धं
शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् ।
तेजः स्मरेच्च तारा-
त्मकमपि मूलं चराचरस्य सदा ॥ ३३ ॥
सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः
सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः ।
पटाजिनकुशोत्तरे सुविशदे च मृद्वासने
२८३
निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥। ३० ॥
प्रसारितं वामकरं निजाङ्के
निधाय तस्योपरि दक्षिणं च ।
ऋजुः प्रसन्नो विजितेन्द्रियः स-
न्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ ३१ ॥
तन्मध्यगतं प्रणवं
प्रणवस्थं बिन्दुमपि च बिन्दुगतम् ।
नादं विचिन्त्य तारं
यथावदुञ्चारयेत्सुषुम्नान्तम् ॥ ३२ ॥
तन्मध्यगतं शुद्धं
शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् ।
तेजः स्मरेच्च तारा-
त्मकमपि मूलं चराचरस्य सदा ॥ ३३ ॥