This page has not been fully proofread.

२८२
 
प्रपञ्चसारे
 
पञ्चाशदात्मकोऽपि च
 
कलाप्रभेदेन तार उद्दिष्टः ।
 
तावन्मात्रायमना-
 
त्कलाश्च विवृता भवन्ति तत्त्वविदा ॥ २६ ॥
 
पूर्वमिडाया वदने
 
विचिन्तयेद्धूम्रमानिलं बीजम् ।
 
तेनागतेन देहं
 
प्रशोषयेत्सान्तराधिकरचरणम् ॥ २७ ॥
 
पिङ्गलया प्रतिमुञ्चे-
 
तथैव कार्शानवेन रक्तरुचा ।
 
प्रतिदा पूर्वविधिना
 
मुश्चेन्नैशाकरेण सुसितेन ॥ २८ ॥
 
संपूरयेत्सुधामय-
 
जलशीकरवर्षिणा तनुं सकलाम् ।
 
निर्माय मानसेन च
 
परिपूर्ण मनाश्विरं भूयात् ॥ २९ ॥