This page has not been fully proofread.

अष्टादश: पटलः ।
 
२८१
 
स्थानस्थापनकर्म
 
प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः ।
 
यो मनसि देवताया
 
भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ २२ ॥
 
संस्थापयेश्च तत्रे-
 
त्येवं ध्यानं वदन्ति तत्त्वविदः ।
 
सत्तामात्रं नित्यं
 
शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ २३ ॥
 
तत्प्रविचिन्त्य स तस्मिं-
 
श्चित्तलयः स्यात्समाधिरुद्दिष्टः ।
 
अष्टाङ्गैरिति कथितैः
 
पुनराशु निगृह्यतेऽरिरात्मविदा ॥ २४ ॥
 
अथ वा शोषणदहन-
 
लावनभेदेन शोधिते देहे ।
 
पञ्चाशद्भिर्मात्रा-
 
भेदैर्विधिवत्समायमेत्प्राणान् ॥ २५ ॥
 
*P. 18a