This page has not been fully proofread.

अष्टादशः पटलः ।
 
२७९
 
करपादमुखादिविहीनमना-
 
रतदृश्यमनन्यगमात्मपदम् ।
 
यमिहात्मनि पश्यति तत्त्वविद-
 
स्तमिमं किल योगमिति ब्रुवते ॥ १४ ॥
 
योगाप्तिदूषणपरं त्वथ कामकोप-
लोभप्रमोहमदमत्सरतेति षट्कम् ।
 
वैरं जयेत्सपदि योगविदेनमङ्ग-
 
र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ १५ ॥
 
यमनियमासनपवना-
 
यामाः प्रत्याहृतिश्च धारणया ।
 
ध्यानं चापि समाधिः
 
प्रोक्तान्यङ्गानि योगयोग्यानि ॥ १६ ॥
 
सत्यमहिंसा समता
 
धृतिरस्तेयं क्षमार्जवं च तथा ।
 
वैराग्यमिति यमः स्या-
 
त्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ १७ ॥