2026-02-24 05:34:22 by ambuda-bot
This page has not been fully proofread.
२७८
प्रपञ्चसारे
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ।
स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ ८ ॥
चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः ।
किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ ९ ॥
सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः ।
अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलंकृताः ॥ १० ॥
आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ ११ ॥
ज्वलज्ज्वालासमाभाः स्युरात्माद्या 'मूर्तिशक्तयः ।
इति पश्चावरणकं विधानं प्रणवोद्भवम् ॥ १२ ॥
इत्थं मन्त्री तारममुं जापहुताच-
भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् ।
यै: संलब्ध्वा चेह समग्रां श्रियमन्ते
शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ १३ ।
1. शक्तिमूर्तयः.