This page has not been fully proofread.

अष्टादशः पटलः ।
 
२७७
 
विष्णुं भास्वत्किरीटाङ्गदवलययुगाकल्पहारोदराङ्घ्रि-
श्रोणीरूपं सर्वक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् ।
हस्तोद्यञ्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा-
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ४ ॥
 
दीक्षितो मनुमिमं शतलक्षं
संजपेत्प्रतिहुनेश्च्च दशांशम् ।
 
पायसैर्धृतयुतैश्च तदन्ते
 
विप्रभूरुहभवा: समिधो
 
सर्पिः पायसशाली-
 
वा ॥ ५ ॥
 
तिलसमिदाद्यैरनेन यो जुहुयात् ।
 
ऐहिकपारत्रिकमपि
 
स तु लभते वाञ्छितं फलं नचिरात् ॥ ६ ॥
 
अभ्यर्च्य वैष्णवमथो विधिनैव पीठ-
 
मावाह्य तत्र सकलार्थकरं मुकुन्दम् ।
अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र-
वज्रादिकैर्यजतु मन्त्रिवरः क्रमेण ॥ ७ ॥
 
1. श्रोणीभूषं.