This page has not been fully proofread.

सप्तदश: पटलः ।
 
तत्तत्प्राप्त्वा तत्र तत्र प्रकामं
 
प्रीतः क्रीडेद्देववन्मानुषेषु ॥ ५३ ॥
 
एवं देवं पूजयन्मन्त्रमेनं
 
जप्यान्मन्त्री सर्वलोकप्रियः स्यात् ।
 
इष्टान्कामान्प्राप्य संपन्नवृत्ति-
 
र्नित्यं शुद्धं तत्परं धाम भूयात् ॥ ५४ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
प्रपञ्चसारे सप्तदशः पटलः ॥
 
२७५